शिव उवाच-
देवी त्वं भक्तसुलभे सर्वकार्यविधायिनी।
कलौ
हि कार्यसिध्यर्थं उपायं ब्रूहि यत्नतः।
देव्युवाच- श्रुणु देव प्रवक्ष्यामि कलौ सर्वेष्टसाधनम्।
मया तवैव स्नेहेनाप्यम्बास्तुतिः प्रकाश्यते।
विनियोगः-अस्य श्रीदुर्गासप्तश्लोकी स्तोत्रमन्त्रस्य
नारायण ऋषि अनुष्टुप छन्दः श्रीमहाकालीमहालक्ष्मीमहासरस्वत्यौ देवताः श्रीदुर्गाप्रीत्यर्थं
सप्तश्लोकी दुर्गापाठे विनियोगः।
ऊँ
ज्ञानिनां अपि चेतांसि देवि भगवति हि सा
बलात्
आकृष्य मोहाय महामाया प्रयच्छति॥१॥
दुर्गे
स्मृता हरसि प्रीतिमशेषजन्तोः
स्वस्थैः
स्मृता मतिमतीव शुभां ददासि।
दारिद्रयदुखभयहारिणी
का त्वदन्या
सर्वोपकारकरणाय सदार्द्रचिता॥२॥
सर्वमड़्गलमाड़गल्ये शिवे सर्वार्थसाधिके ।
शरण्ये
त्र्यम्बके गौरि नारायणि नमो अस्तुते॥३॥
शरणागतदीनार्त
परित्राणपरायणे।
सर्वस्यार्तिहरे देवि नारायणि नमो अस्तुते॥४॥
सर्वस्वरुपे
सर्वेशे सर्वशक्तिसमन्विते।
भयेभ्यस्त्राहि
नो देवि दुर्गे देवि नमो अस्तु ते॥५॥
रोगानशेषानपहंसि
तुष्टा
रुष्टा तु कामान् सकलानभीष्टान्।
त्वामाश्रितानां
न विपन्नरानां
त्वामाश्रिता
ह्याश्रयतां प्रयान्ति॥६॥
सर्वाबाधाप्रशमनं त्रैलोक्यस्याखिलेश्वरी।
एवमेव त्वया कार्यमस्मद् वैरिविनाशनम्॥७॥
इति
श्री सप्त श्लोकी दुर्गा पाठे विनियोगः।
नवरात्रि में नौ दिनों तक प्रतिदिन नौ बार इन सात
श्लोको का पाठ करने से सम्पूर्ण दुर्गा सप्तशती पड़ने का फल प्राप्त होता है।मन शान्त
एवं प्रसन्न रहता है।
ऊँ

No comments:
Post a Comment