Sunday, 8 September 2013

गणपति अथर्वशीर्ष



                                      ऊँ भद्रड़्कर्णेभिरिति शान्तिः

ऊँ हरि ऊँ नमस्ते गणपतये ।त्वमेव प्रत्यक्षं तत्त्वमसि । त्वमेव केवलं कर्तासि। त्वमेव केवलं भर्तासि। त्वमेव केवलं हर्तासि। त्वमेव सर्वं खल्विदं ब्रह्मासि। त्वं साक्षादात्मासि नित्यं । ऋतं वच्मि।सत्यं वच्मि। अव त्वं माम् । अव वक्तारम् । अव श्रोतारं। अव दातारं । अव धातारं। अवानूचानमव शिष्यं।अव पश्चातात्। अव पुरस्तात्। अव चोत्तरातात्।अव दक्षिणातात्। अव चोर्ध्वातात्। अवाधरातात्। ्सर्वतो मां पाहि पाहि समन्तात्।त्वं वाड़्मयस्त्वं चिन्मयः। त्वमानन्दमयस्त्वं ब्रह्ममयः। त्वं सच्चिदानन्दाद्वितीयो असि।त्वं प्रत्यक्षं ब्रह्मासि। त्वं ज्ञानमयो विज्ञानमयो असि। सर्वं जगदिदं त्वत्तो जायते।सर्वं जगदिदं त्वतस्तिष्ठति। सर्वं जगदिदं त्वयि लयमेष्यति।सर्वं जगदिदं त्वयि प्रत्येति। त्वं भूमिरापो अनलो अनिलो नभः। त्वं चत्वारि वाक्पदानि। त्वं गुणत्रयातीतः। त्वं कालत्रयातीतः। त्वं देहत्रयातीतः। त्वं मुलाधारस्थितो असि नित्यं। त्वं शक्तित्रयात्मकः । त्वं योगिनो ध्यायन्ति नित्यं। त्वं ब्रह्मा। त्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमाग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्मः भूर्भुवः सुवरोम्।गणादि पुर्वमुच्चार्य वर्णादि तदनन्तरम्। अनुस्वार परतरः अर्धेन्दुलसितम्। तदेण रुद्धम्।एतत्तव मनुस्वरुपं। गकारः पूर्वरुपम्। अकारो मध्यमरुपं। अनुस्वारश्चान्त्यरुपं। बिन्दूरुत्तररुपं। नादः सन्धानम्।संहिता सन्धि।
सैषा गणेशविद्या । गणकः ऋषि । निवृत गायत्री छन्दः। श्रीमहागणपति दैवता । ऊँ गमः । गणपतये नमः । एकदन्ताय विदमहे वक्रतुण्डाय धीमहि । तन्नो दन्ति प्रचोदयात्। एकदन्तं चतुर्हस्तं पाशम् अड़्कुशधारिणम्। अभयं वरदं हस्तौर्बिभ्राणं मुषकध्वजं । रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससम्। रक्त गन्धानूलिप्ताड़्कं  रक्तपुष्पैः सुपुजितं । भक्तानुकम्पितं देवं जगत्कारणं अच्युतं। आविर्भुतं च सृष्टयादौ प्रकृतेः पुरुषात्परं। एवं ध्यायन्ति यो नित्यं स योगी योगिनां वरः। नमो वातपतये नमो गणपतये नमः प्रमथपतये नमस्ते अस्तु लम्बोदरायैकदन्ताय विघ्नविनाशिने शिवसुताय श्रीवरदमूर्तये नमो नमः। एतदथर्वशिरो यो अधीते सब्रह्मभूयाय कल्पते । स सर्वविघ्नैः न बाध्यते। सः सर्वतः सुखमेधते। स पण्चमहापातकोप पातकात् समुच्यते। सायमधीयानो दिवसकृतं पापं नाशयति। प्रातरधीयानो रात्रिकृतं पापं नाशयति। सायं प्रातः प्रयुण्जानो अपापो भवति। धर्मार्थ काममोक्षं च विन्दति। इदम अथर्वशीर्षमशिष्याय ्न देयम्। यो यदि मोहाद दास्यति स पापीयान् भवति। सहस्त्रावर्तनाद्यं यं काममधीते तं तमनेन साधयेत्। अनेन गणपति अभिषिण्चति स वाग्मी भवति। चतुर्थ्यामनश्नण्चपति सः विद्यावान भवति। इत्यथर्वणवाक्यं । ब्रह्माद्याचरणं विध्यात्। न बिभेति कदाचनेति। यो दुर्वाड़्कुरैः भवति स वैश्रवणोपमो भवति। यो लाजैः यजति स यशोवानभवति । स मेघावान भवति। यो मोदक सहस्त्रेण यजति। स वाण्छितफलमं अवाप्नोति। स साज्यसमिद्भिः यजति स सर्वम् लभते। स सर्वम् लभते। अष्टौ ब्राह्मणान् सम्यग्ग्राहयित्वा सूर्यवर्चस्वी भवति। सूर्यग्रहे महानद्यां प्रतिमासंनिधौ वा जप्तवा सिद्धमंत्रो भवति। महाविघ्नात् प्रमुच्यते । महापापात् प्रमुच्यते। महादोषात् प्रमुच्यते। स सर्वविदभवति। स सर्वविद्भवति। य एवं वेद। ऊँ भद्रड़्कर्णेभिरिति शान्तिः।
इति श्री गणपति अथर्वशीर्षम्।

No comments:

Post a Comment